|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.65. अध्यायः 065
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वर्णाश्रमधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-65-0x(5488)(67322)
श्रुता मे कथिताः पूर्वं चत्वारो मानवाश्रमाः।
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह॥ 12-65-1(67323)
भीष्म उवाच। 12-65-2x(5489)
विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर।
यथा मम महाबाहो विदिताः साधुसंमताः॥ 12-65-2(67324)
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर।
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप। 12-65-3(67325)
सर्वाण्येतानि कौन्तेय विद्यन्ते भरतर्षभ।
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम्॥ 12-65-4(67326)
अकामद्वेषसंयुक्तो दण़्डनीत्या युधिष्ठिर।
समदर्शी च भूतेषु भैक्ष्याश्रमपदं भवेत्॥ 12-65-5(67327)
वेत्ति दानं विसर्गं च विग्रहानुग्रहौ तथा।
यथोक्तवृत्तो धीरश्च क्षमाश्रमपदं भवेत्॥ 12-65-6(67328)
अर्हान्पूजयतो नित्यं संविभागेन पाण्डव।
सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत्॥ 12-65-7(67329)
ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर।
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत्॥ 12-65-8(67330)
लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत्।
कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत्॥ 12-65-9(67331)
आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान्।
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत्॥ 12-65-10(67332)
संविभागेन भूतानामतिथीनां तथाऽर्चनात्।
देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत्॥ 12-65-11(67333)
मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम।
कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत्॥ 12-65-12(67334)
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात्।
दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत्॥ 12-65-13(67335)
वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम्।
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत्॥ 12-65-14(67336)
आह्निकाञ्जपमानस्य देवान्पूजयतः सदा।
धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत्॥ 12-65-15(67337)
मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः।
प्राणद्यूते व्यवस्थाप्य ब्रह्माश्रमपदं भवेत्॥ 12-65-16(67338)
अजिह्नमशठं मार्गं वर्तमानस्य भारत।
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत्॥ 12-65-17(67339)
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत।
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत्॥ 12-65-18(67340)
सर्वभूतेष्वनुक्रोशं कुर्वतस्तव भारत।
आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसंचयः॥ 12-65-19(67341)
बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर।
अनुक्रोशक्रिया पार्थ धर्म एष सनातनः॥ 12-65-20(67342)
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह।
शरणागतेषु कौरव्य परं कारुण्यमाचर॥ 12-65-21(67343)
चराचराणां भूतानां रक्षणं चापि सर्वशः।
यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत्॥ 12-65-22(67344)
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम्।
निग्रहानुग्रहौ पार्थ गार्हस्थ्यममितं तपः॥ 12-65-23(67345)
साधूनामर्चनीयानां पूजासु विदितात्मनाम्।
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत्॥ 12-65-24(67346)
आश्रमस्थानि भूतानि यस्य वेश्मनि भारत।
भुञ्जते विपुलं भोज्यं तद्गार्हस्थ्यं युधिष्ठिर॥ 12-65-25(67347)
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत्।
आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम्॥ 12-65-26(67348)
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा।
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर॥ 12-65-27(67349)
स्थानमानं कुलेमानं वयोमानं तथैव च।
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर॥ 12-65-28(67350)
देशधर्मांश्च कौन्तेय कुलधर्मास्तथैव च।
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत्॥ 12-65-29(67351)
काले विभूतिं भूतानामुपहारांस्तथैव च।
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत्॥ 12-65-30(67352)
देशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते।
सर्वलोकस्य कौन्तेय राजा भवति सोश्रमी॥ 12-65-31(67353)
ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत।
पालिता यस्य विषये पादांशस्तस्य भूपतेः॥ 12-65-32(67354)
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान्।
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते॥ 12-65-33(67355)
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर।
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ॥ 12-65-34(67356)
सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम्।
पावनं पुरुषव्याघ्र यद्वयं पर्युपास्महे॥ 12-65-35(67357)
आत्मोपमस्तु भूतेषु यो वै भवति मानवः।
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम्॥ 12-65-36(67358)
धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा।
त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति॥ 12-65-37(67359)
यदा सर्वत्र निर्मुक्तः कामो नास्य हृदि स्थितः।
यदा सत्यान्वितो वृत्तैस्तदा ब्रह्म सम श्नुते॥ 12-65-38(67360)
सुप्रसन्नस्तु भावेन योगेन च नराधिप।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः॥ 12-65-39(67361)
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम्।
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ॥ 12-65-40(67362)
वने चरन्ति ये धर्ममाश्रमेषु च भारत।
रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः॥ 12-65-41(67363)
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः।
युधिष्ठिर त्वमेनं वै पूर्वं दृष्टं सनातनम्॥ 12-65-42(67364)
चातुराश्रम्यमैकाग्र्यं चातुर्वर्ण्यं च पाण्डवं।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः॥ ॥ 12-65-43(67365)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चषष्टितमोऽध्यायः॥ 65॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-65-4 एतानि चातुराश्रम्यकारिणां लिङ्गानि सतां राज्ञां राजधर्मेष्वेव वर्तन्ते इत्यर्थः॥ 12-65-5 भैक्ष्याश्रमः ब्रह्मचर्यम्॥ 12-65-6 क्षमाश्रमो गार्हस्थ्यम्॥ 12-65-7 भैक्ष्याश्रमः संन्यासः॥ 12-65-8 दीक्षाश्रमो वैखानसः॥ 12-65-12 शिष्टार्थं शिष्टसंरक्षणार्थम्॥ 12-65-13 सत्याश्रमः क्षात्राश्रमः॥ 12-65-15 धर्माश्रमः यत्याश्रमः॥ 12-65-19 सर्वावस्थं पदं भवेत् इति झ. पाठः॥ 12-65-31 सोश्रमी सः आश्रमी सर्वाश्रमफलभागित्यर्थः॥ 12-65-37 धर्मे स्थिता सत्ववीर्या धर्मसेतुवटारका। त्यागवाताध्वगाशीघ्रा नौस्तं सन्तारयिष्यति। इति झ. पाठः। तत्र धर्मसेतुः सास्त्रं सैव वटारका बन्धनरज्जुर्यत्रेत्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|